शक्मा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शक्मा, [न्] पुं, (शक + “अशिशकिभ्यां छन्दसि ।” उणा० ४ । १४६ । इति मनिन् ।) शक्तिः । शकधातोरौणादिकमनिन्प्रत्ययेन निष्पन्नम् । इति सिद्धान्तकौमुदी ॥ (इन्द्रः । इत्युज्ज्वलः । ४ । १४६ ॥ क्ली, शक्यतेऽनेनाभिमतं प्राप्तुं शक्नो- तीष्टं साघयितुं वा शक्यते कर्त्तुमिति वा । शक + मनिन् । कर्म्म । इति निघण्टुः । २ । १ ॥ यथा, ऋग्वेदे । ९ । ३४ । ३ । “दुहन्ति शक्मना पयः ॥” “शक्मना कर्म्मणा ।” इति तद्भाष्ये सायणः ॥)
