सामग्री पर जाएँ

शक्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शक्यः, त्रि, (शक + “शकिसहोश्च ।” ३ । १ । ९९ । इति यत् ।) समर्थनीयः । (यथा, रघुः । २ । ४९ । “शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥”) शक्त्याश्रयः । (यदा भावे यत् स्यात् तदा क्लीवलिङ्गः स्यात् । यथा, गीतायाम् । १८ । ११ । “नहि शक्यं देहभृता त्यक्तुं कर्म्माण्यशेषतः ॥” तथाच रामायणे । २ । १३ । ५ । “तानि सर्व्वाणि संयत्तुं शक्यं राम जितेन्द्रियैः ॥”) पुं, वाच्योऽर्थः । यथा, -- “शक्योऽर्थोऽभिधया ज्ञेयः लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ज्ञेयस्तिस्रः शब्दस्य वृत्तयः ॥” इत्यलङ्कारशास्त्रम् ॥ अन्यच्च । “शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ।” इति भाषापरिच्छेदः ॥ अपि च । “ईश्वरसङ्केतः शक्तिस्तया अर्थबोधकं पदं वाचकम् । यथा गोत्वादिविशिष्टबोधकं गवादिपदं तद्वोध्योऽर्थो गवादिर्वाच्यः स एव मुख्यार्थ इत्युच्यते ।” इति शक्तिवादः ॥

"https://sa.wiktionary.org/w/index.php?title=शक्यः&oldid=169450" इत्यस्माद् प्रतिप्राप्तम्