सामग्री पर जाएँ

शक्रधनुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शक्रधनुः, [स्] क्ली, (शक्रस्य धनुः ।) इन्द्रधनुः । इत्यमरः ॥ गण्डी इति रामधनुक इति च भाषा ॥ “इन्द्रायुधं शक्रधनुः कौशिकायुधमित्यपि । ऐरावतं रोहितं स्यादवक्रं यदि तद्धनुः ॥” इति शब्दरत्नावली ॥ (यथा, महाभारते । ५ । ५६ । ११ । “यथाकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किन्नु तत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=शक्रधनुः&oldid=169466" इत्यस्माद् प्रतिप्राप्तम्