सामग्री पर जाएँ

शक्रध्वजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शक्रध्वजः, (शक्रस्य ध्वजः ।) इन्द्रध्वजः । (यथा, आर्य्यासप्तसत्याम् । २६९ । “ते श्रेष्ठिनः क्व सम्प्रति शक्रध्वज ! यैः कृत- स्तवोच्छ्रायः । ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति ॥”) तद्विवरणं यथा, -- नृपवाहन उवाच । “भगवन् श्रोतुमिच्छामि तस्य उत्थापनं यथा । क्रियते दिन ऋक्षे च द्रव्यमन्त्रविधिं वद ॥ अगस्त्य उवाच । ब्रह्मणा कथितं शक्र बृहस्पतिसमीपतः । यथा तथा प्रवक्ष्यामि विधिं केतोः समुच्छ्रये ॥ बृहस्पतिरुवाच । शुभाहे ऋक्षे करणे मुहूर्त्ते शुभमङ्गले । दैवज्ञः सूत्रधारश्च वनं गच्छेत् सहायवान् ॥ देवीप्रतिष्ठाविधिना यात्रायां या प्रचोदिता । गत्वा बृक्षं शुभं पुष्पं धवार्ज्जुनप्रियङ्करम् ॥ पाते तु तथैव कुर्य्यादुत्थाने यादृशी पूजा । रात्रौ शुभकृत् पातनं नो दृष्टं काककपोतैः ॥ याति नृपं सहराष्ट्रं यश्चैव कारयेत् केतुम् । नगरे वा पुरे खेटे यद्येवं कुर्व्वते पौराः ॥ पुरे नगरस्य द्वारे वृषसिंहखगोत्थितम् । केतु समस्तघोराणां नाशनं जयदं महत् ॥ एवं पूर्ब्बं हरिः केतुं प्राप्तवान् वृषवाहनात् । तथा ब्रह्मसुतेनैव ब्रह्मणः शक्रमागतः ॥ तेन सोमस्य तद्वृत्तं ततो दक्षे समागतम् । तदाप्रभृति कुर्व्वन्ति नृपा अद्यापि उच्छ्रयम् ॥ एवं यः कारयेद्राजा केतुं विजयकारकम् । तस्य पृथ्वी बलोपेता सद्बीपा वशगा भवेत् ॥” इत्याद्ये देवीपुराणे इन्द्रध्वजलक्षणम् २१ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=शक्रध्वजः&oldid=169469" इत्यस्माद् प्रतिप्राप्तम्