शक्रोत्थान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शक्रोत्थानम्, क्ली, (शक्रस्य शक्रध्वजस्य उत्थानम् ।) शक्रध्वजोत्सवः । अस्य विधिर्लिख्यते । श्रीऔर्व्व उवाच । “अथातः शृणु राजेन्द्र शक्रोत्थानध्वजोत्सवम् । यत्कृत्वा नृपतिर्याति नो कदाचित् पराभवम् ॥ रवौ हरिस्थे द्वादश्यां श्रवणे स्रितपक्षके । आराधयेन्नृपः सम्यक् सर्व्वविघ्नोपशान्तये ॥ राजोपरिचरो नाम वसुनामापरस्तु यः । नृपस्तेनायमतुलो यज्ञः प्रावर्त्तितः पुरा ॥ प्राविट्काले च नभसि द्वादश्यामसितेतरे । पुरोहितो बहुविधैर्वाद्यैस्तूर्य्यैः समन्वितः ॥ प्रथमं शक्रकेत्वर्थे वृक्षमामन्त्र्य वर्द्धयेत् । सांवत्सरो वार्द्धकिश्च कृतकौतुकमङ्गलः ॥ उद्याने देवतागारे श्मशाने मार्गमध्यतः । ये जातास्तरवस्तांस्तु वर्जयेद्वासवध्वजे ॥ बहुवल्लीयुतं शुष्कं बहुकण्टकसंयुतम् । तत्तुल्यः कोऽपि नान्योऽस्ति प्रियः शक्रस्य पार्थिव । तस्य पूजा सर्व्वपूजा केशवाद्याश्च तत्रगाः ॥ सकलकलुषहारि व्याधिदुर्भिक्षनाशि सकलभवनिवेशं सर्व्वसौभाग्यकारि । सुरपतिगृहगामीहार्च्चनं शक्रकेतोः प्रतिशरदमनेकैः पूजयेत् श्रीविवृद्ध्यै ॥” इति श्रीकालिकापुराणे ८८ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शक्रोत्थान¦ न॰ शक्रस्य तद्ध्वजस्य उत्थानम्। भाद्रशुक्ल-द्वादश्यां कर्त्तव्ये
१ शक्रध्वजस्थोत्थाने तदुपलक्षिते
२ उत्सवे च। इन्द्रध्वजशब्दे
९४
६ पृ॰ दृश्यम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शक्रोत्थान/ शक्रो n. the raising up of -I इन्द्र's banner , = next Cat. (also 711152 नो-त्सवm. VP. )