सामग्री पर जाएँ

शङ्करः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्करः, पुं, (शं कल्याणं करोतीति । शम् + कृ + “शमिधातोः संज्ञायाम् ।” ३ । २ । १४ । इति अच् ।) शिवः । इत्यमरः ॥ अस्य व्युत्- पत्तिर्यथा, -- “सदा ध्यानाच्च भक्तानां पवनं यन्निरामयम् । भूतनाथत्वमप्यस्मात्तेनाहं शङ्करः स्मृतः ॥” इति स्कन्दपुराणम् ॥ अस्य भस्मास्थिधारणकारणं यथा, -- “विसृज्य तान् ब्रह्मविष्णुमयान वृषभवाहनः । आदाय सगणान् सर्व्वान् कामरूपान्तरं ययौ ॥ उग्रतारां ततो देवीं गणांश्च प्राह शङ्करः उत्सारयन्तु सकलान् इमान् लोकान् गणा द्रुतम् । उग्रतारे महादेवि त्वञ्चाप्युत्सारय द्रुतम् ॥ ततो गणाः कामरूपाद्देवी चाप्यपराजिता । लोकानुत्सारयामासुः पीठं कर्त्तुं रहस्यकम् ॥ उत्सार्य्यमाणे लोके तु चतुर्व्वर्णैर्द्विजातिभिः । सन्ध्याचलं गतो विप्रो वशिष्ठः कुपितो मुनिः ॥ सोऽप्युग्रतारया देव्या उत्सारयितुमीशया । गणैः सह धृतः प्राह शापं कुर्व्वन् सुदारुणम् ॥ यस्मादहं धृतो वामे त्वयोत्सारयितुं मुनिः । तस्मात्त्वं वाम्यभावेन पूज्या भव समन्त्रिका ॥ भर्त्स्यन्ति म्लेच्छवद्यस्माद्गणास्ते मन्दबुद्धयः । भवन्तु म्लेच्छास्तस्माद्वै भवत्याः कामरूपके ॥ महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः । तपोधनं मुनिं दान्तं म्ले ञ्चवद्वेदपारगम् । तस्मात् म्लेच्छप्रियो भूयात् शङ्करश्चास्थिभस्म- धृक् ॥” इति कालिकापुराणे ८३ अध्यायः ॥ * ॥ शङ्करगीता देवीपुराणे ७ अध्याये द्रष्टव्या ॥ शिवावतारविशेषः । यथा, -- “तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् । वर्त्म स्थापयतु श्रौतं जगद्येन मुखं व्रजेत् ॥ इत्युक्त्रोपरतान् देवानुवाच गिरिजाप्रियः । मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ॥ दुष्टाचारविनाशाय धर्म्मसंस्थापनाय च । भाष्यं कुर्व्वन् ब्रह्मसूत्रतात्पर्य्यार्थविनिर्णयम् ॥ मोहयन् प्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः । चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवद्भुजैः ॥ यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले । मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥ तं मामनुसरिष्यन्ति सर्व्वे त्रिदिववासिनः । तदा मनोरथः पूर्णो भवतां स्यान्न संशयः ॥” इति माधवीयसंक्षेपशङ्करजये १ सर्गः ॥ * ॥ (अयं हि द्वात्रिंशद्वर्षवयसि भौतिकशरीरं परित्यज्य परब्रह्मणि लीन आसीत् । यथा, तत्रैव । “एवंप्रकारैः किल कल्मषघ्नैः शिवावतारस्य शुभैश्चरित्रैः । द्वात्रिंशदस्योज्ज्वलकीर्त्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥”) मङ्गलकारके, त्रि । यथा, -- “क्षेमङ्करोऽरिष्टतातिः स्यान्मद्रङ्करशङ्करौ ॥” इति त्रिकाण्डशेषः ॥ (यथा च महाभारते । ३ । २२८ । ६ । “हिरण्यगर्भ भद्रं ते लोकानां शङ्करो भव ॥”)

"https://sa.wiktionary.org/w/index.php?title=शङ्करः&oldid=169527" इत्यस्माद् प्रतिप्राप्तम्