शङ्कराचार्य्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शङ्कराचार्य्यः, पुं, (शङ्कर आचार्य्यश्च ।) स्वनाम- ख्याताचार्य्यः । स तु अद्वैतवादी वेदान्तभाष्य- कर्त्ता च । यथा, -- “श्रीशङ्कराचार्य्यनरावतारं विश्वेश्वरं विश्वगुरुं प्रणम्य । वेदान्तशास्त्रश्रवणालसानां बोधाय कुर्व्वे कमपि प्रयत्नम् ॥” इति मधुसूदनसरस्वतीकृतसिद्धान्तबिन्दुप्रथम- श्लोकः ॥
