सामग्री पर जाएँ

शङ्कुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्कुः, पुं, (शङ्क्यतेऽस्मादिति । शङ्क + “खरुशङ्कु- पीयुनीलङ्गुगुलिगु ।” उणा० १ । ३७ । इति कुप्रत्यवेन निपातितः ।) स्थाणुः । मुडा गाछ इति भाषा । मत्स्यविशेषः । शा~कोच इति भाषा । शल्यास्त्रम् । शेल इति भाषा । इत्य- मरभरतौ ॥ संख्याविशेषः । स तु लीलावती- मते दशलक्षकोटिः । कीलः । गो~ज इति भाषा । (यथा, मनुः । ८ । २७१ । “निःक्षेप्योऽयोमयः शङ्कुर्ज्जलन्नास्ये दशाङ्गुलः ॥”) ईशः । कलुषः । इति मेदिनी ॥ पत्रशिरा- जालम् । मेढ्रः । इति हेमचन्द्रः ॥ राक्षसः । इति शब्दमाला ॥ नखीनामगन्धद्रव्यम् । इति जटाधरः ॥ दीपसूर्य्ययोश्छायापरिमाणार्थं काष्ठादिनिर्म्मितः क्रमेण सूक्ष्माग्रद्बादशाङ्गुल- परिमितः कीलकः । यथा । “अर्काङ्गुला तु सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका । शङ्कुसंज्ञा भवेच्चैव तच्छायां परिकल्पयेत् ॥ मध्याह्नहीनैरादित्ययुक्तैश्छायाङ्गुलैर्हरेत् । षट्पूरितदिवादण्डं लब्धं दण्डादिकं भवेत् ॥ पूर्ब्बाह्णच्छाययातीतं पराह्णच्छाययैष्यकम् । शून्यैकरामबाणेभदिशो रुद्राः । ० । १ । ३ । ५ । ८ । १० । ११ । क्रमोत्क्रमैः ॥ आषाढादिषु मासेषु च्छाया माध्याह्निकी मता । अयनांशजमासान्ते व्युत्क्रमेणादितो बुधैः । संख्योक्तान्यदिने भागहारे वृद्धीतरे तथा ॥” इति ज्योतिस्तत्त्वम् ॥ तस्य नामान्तरं नरः । यथा । अथ करणसूत्रम् । “शङ्कुः प्रदीपतलशङ्कुतलान्तरघ्न- श्छाया भवेद्विनरदीपशिख्यौच्च्यभक्तः ।” उदाहरणम् । “शङ्कुप्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितिः सार्द्धकरत्रया चेत् । शङ्कोस्तथार्काङ्गुलसंमितस्य तस्य प्रभा स्यात् कियती वदाशु ॥” न्यासः । शङ्कुः १२ भूः ३ दीपः ७ लब्धानि च्छायाङ्गुलानि १२ । इति लीलावत्यां छाया- व्यवहारः द्वादशाङ्गुलपरिमाणम् । यथा । विष्णु- धर्न्मोत्तरीयप्रथमकाण्डम् । “द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयन्तु शयः स्मृतः । तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिकः ॥” इति तिथ्यादितत्त्वम् ॥ (जनमेजयस्य पुत्त्रः । यथा, महाभारते । १ । ९५ । ८६ । “भवतो वपुष्टमायां द्बौ पुत्त्रौ जज्ञाते शतानीकः शङ्कुश्च ॥” * ॥ उग्रसेनस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । २४ । “कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहुस्तथा । राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्कुः [śaṅkuḥ], [शङ्क्-उण् Uṇ.1.36]

A dart, spear, spike, javelin, dagger; oft. at the end of comp; शोकशङ्कुः 'the dart of grief', i. e. sharp or poignant grief; तथैव तीव्रो हृदि शोकशङ्कुर्मर्माणि कृन्तन्नपि किं न सोढः U.3.35; R.8.93; Ki.16.15.

A stake, pillar, post, pale; महासुहयः सैन्धवः पड्वीशशङ्कून् संवृहेत् Bri. Up.6.1.13; निखातशङ्कुसंबद्धसैन्धवश्रेणिसंयुतम् Siva B.2. 53.

A nail, pin, peg; बभूवु सप्त दुर्धर्षाः खादिरैः शङ्कुभि- श्चिताः Mb.3.284.3; अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे (अक्षिपत्) R.12.95.

The sharp head or point of an arrow, barb; Dk.1.1.

The trunk (of a lopped tree), stump, pollard.

The pin of a dial.

A measure of twelve fingers.

A measuring-rod.

The sine of altitude (in astr.).

Ten billions.

The fibres of a leaf; यथा शङ्कुना सर्वाणि पर्णानि संतृण्णानि Ch. Up. 2.23.3.

An ant-hill.

The penis.

The skate-fish.

A demon.

Poison.

Sin; crime.

An aquatic animal, particularly, a goose.

N. of Śiva.

The Sāla tree.

A kind of perfume (नखी).

N. of Kāma, the god of love. -Comp. -कर्ण a. spike-eared; महावृक्षगलस्कन्धः शङ्कुकर्णो बिभीषणः Mb.1.152.4. (-र्णः) an ass. -च्छाया the shadow of a gnomon. -जीवा (in astr.) the gnomon sine. -तरुः, -वृक्षः the Sāla tree. -धानम् a hole for a pin. -पुच्छम् the sting (of a bee etc.). -फला, -फलिका the Śamī tree.

मुखः a crocodile.

a kind of leech. -मूली the 15th day of the light half of मार्गशीर्ष.

"https://sa.wiktionary.org/w/index.php?title=शङ्कुः&oldid=307705" इत्यस्माद् प्रतिप्राप्तम्