शङ्खः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शङ्खः, पुं, क्ली, (शाम्यति अशुभमस्मादिति । शम + “शमेः खः ।” उणा० १ । १०४ । इति खः ।) समुद्रोद्भवजन्तुविशेषः । शा~ख इति भाषा । तत्पर्य्यायः । कम्बुः २ । इत्यमरः ॥ कम्बोजः ७ अब्जः ४ जलजः ५ । इति शब्दरत्नावली ॥ अर्णोभवः ६ पावनध्वनिः ७ अन्तःकुटिलः ८ महानादः ९ श्वेतः १० पूतः ११ मुखरः १२ दीर्घनादः १३ बहुनादः १४ हरिप्रियः १५ । अस्य गुणाः । कटुरसत्वम् । शीतत्वम् । पुष्ठि- वीर्य्यबलप्रदत्वम् । गुल्मशूलकफश्वासविषदोषना- शित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “कम्बुशङ्खनखश्चापि शुक्तिशम्बूककर्कटाः । जीवा एवंविधाश्चान्ये कोषस्थाः परिकीर्त्तिताः ॥ कोषस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः । वृंहणा बहुवर्च्चस्का वृष्याश्च बलवर्द्धनाः ॥” इति भावप्रकाशः ॥ अन्यच्च । “शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ ।” इति राजवल्लभः ॥ * ॥ अस्योत्पत्त्यादिर्यथा । “अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति । ग्रीष्ममध्याह्नमार्त्तण्डशतकरुचमुत्तमम् ॥ शूलञ्च भ्रमणं कृत्वा पपात दानवोपरि । चकार भस्मसात्तञ्च सरथञ्चावलीलया ॥ स शिवस्तेन शूलेन दानवस्यास्थिजालकम् । प्रेम्णा च प्रेरयामास लवणोदे च सादरम् ॥ अस्थिभिः शङ्खचूडस्य शङ्खजातिर्ब्बभूव ह । नानाप्रकाररूपा च शश्वत्पूता सुरार्च्चने ॥ प्रशस्तं शङ्खतोयञ्च देवानां प्रीतिदं परम् । तीर्थतोयस्वरूपञ्च पवित्रं शम्भुना विना ॥ शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा । स स्नातः सर्व्वतीर्थेषु यः स्नातः शङ्खवारिणा ॥ शङ्खे हरेरधिष्ठानं यतः शङ्खस्ततो हरिः । तत्रैव सततं लक्ष्मीर्द्दूरीभूतममङ्गलम् ॥ स्त्रीणाञ्च शङ्खध्वनिभिः शूद्रानाञ्च विशेषतः । भीता रुष्टा याति लक्ष्मीः स्थलमन्यत् स्थला- त्ततः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १८ अध्यायः ॥ * ॥ अथ शङ्खमाहात्म्यम् । ब्रह्मोवाच । “शृणु शङ्खस्य माहात्म्यं सर्व्वपापहरं शुभम् ॥ कपिला क्षीरमादाय शङ्खे कृत्वा जनार्द्दनम् । अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथाक्रमम् ॥” इति भरतधृतब्रह्माण्डपुराणवचनम् ॥ * ॥ धर्म्मशास्त्रप्रयोजकमुनिविशेषः । यथा, -- “मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसम्बर्त्ताः कात्यायनबृहस्पती ॥ पराशरव्यासशङ्खलिखिता दक्षगोतमौ । शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥” इति याज्ञवल्क्यवचनम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शङ्खः [śaṅkhḥ] ङ्खम् [ṅkham], ङ्खम् [शम्-ख Uṇ.1.12]
The conch-shell, a shell; न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तो$पि Pt.4.11; शङ्खान् दध्मुः पृथक् पृथक् Bg.1.18.
The bone on the forehead; शङ्खान्तरद्योति विलोचनं यत् Ku.7.33; Rām.6. 48.1.
The temporal bone.
The part between the tusks of an elephant.
A hundred billions.
A military drum or other martial instrument.
A kind of perfume (नखी).
One of the nine treasures of Kubera.
N. of a demon slain by Viṣṇu.
N. of the author of a Smriti (mentioned in conjunction with लिखित q. v.).
A bracelet (made of conchshell); अवघ्नन्त्या प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् Bhāg.11. 9.6. -Comp. -अन्तरम् the forehead.
आवर्तः the convolution of a shell.
a kind of fistula in the rectum.-उदकम् the water poured into a conch-shell. -कारः, -कारकः a shell-cutter described as a kind of mixed caste. -क्षीरम् an impossibility; cf. खपुष्प. -चरी, -चर्ची a mark made with sandal (on the forehead). -चूर्णम् powder produced from shells. -जः a large pearl (of the shape of a pigeon's egg). -द्रावः, -द्रावकः a solvent for dissolving shells. -द्राविन् Rumex Vesicarius (आम्ल- वेतस्, Mar. चुका). -ध्मः, -ध्मा m. a shell-blower, conchblower; शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः BriUp.2.4.8. -ध्वनिः the sound of a conch (sometimes, but erroneously, used to denote a cry of alarm or despair). -नखः a kind of aquatic animal, snail; लग्नैः शङ्खनखैः Mb.13.5.2.
पालः an epithet of the sun.
a kind of sweetmeat (Mar. शंकरपाळे).
a kind of snake. -प्रस्थः a spot on the moon. -भृत् m. an epithet of Viṣṇu. -मुखः an alligator. -मुक्ता the mother of pearls. -लिखितः a righteous or just king. (-dual) N. of two writers of Smṛitis. -वलयः a shell-bracelet.-वेला the hour at which the conch is blown; यथा शङ्खवेलायामागन्तव्यमिति यस्मिन्नपि ग्रामे शङ्खो नाध्मायते तस्मिन्नपि स तथाकालो$स्तीति न आगमनं परिहास्यते ŚB. on MS.6.4.42.-स्वनः the sound of a conch.
