सामग्री पर जाएँ

शङ्खकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खकः, पुं, क्ली, (शङ्ख + स्वार्थे कन् ।) कम्बुः । शिरोरोगे, पुं । इति मेदिनी ॥ तस्य लक्षणादि यथा, -- शङ्खकमाह । “पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः । तीव्ररुद्गाहरागं हि शोथं कुर्व्वन्ति दारुणम् ॥ स शिरो विषवद्बेगान्निरुध्याशु गलं तथा । त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः । त्र्यहाज्जीवति भैषज्यं प्रत्याख्येयस्य कारयेत् ॥” पित्तरक्तानिलाः अत्र कफोऽपि योज्यः । कृतानुतापः कफपित्तरक्तैरिति सुश्रुतवचनात् । विमूर्च्छिताः प्रवृद्धाः । त्रिरात्रात् त्रिरात्रमध्ये मारयति । इति भावप्रकाशः ॥ अस्य चिकित्सा शिरोरोगशब्दे द्रष्टव्या ॥ (ललाटास्थि । यथा, याज्ञवल्क्यः । ३ । ९० । “द्बौ शङ्खकौ कपालानि चत्रारि शिरसस्तथा । ऊरः सप्तदशास्थीनि पुरुषस्थास्थिसंग्रहः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खकः [śaṅkhakḥ] कम् [kam], कम् A conch-shell.

कः A disease of the head.

The temporal bone. -कम् A bracelet (made of conch-shell); प्रचलत्कलापिकलशङ्खकस्वना Śi.13.41. शङ्खनकः, (-खः) A small conch or shell.

"https://sa.wiktionary.org/w/index.php?title=शङ्खकः&oldid=307885" इत्यस्माद् प्रतिप्राप्तम्