सामग्री पर जाएँ

शङ्खद्रावक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खद्रावकः, पुं, (शङ्खं द्रावयतीति । द्रु + णिच् + ण्वुल् ।) औषधविशेषः । यथा, -- “अर्कस्नुही तथा चिञ्चा तिलारग्वधचित्रकम् । अपामार्गभस्मसमं वस्त्रपूतं जलं हरेत् ॥ मृद्वग्निना पचेत्तत्तु यावल्लवणतां गतम् । लवणेन समौ ग्राह्यौ द्बौ क्षारौ टङ्गणं तथा ॥ समुद्रफेनगोदन्ताकाशीशं सोरका तथा । द्बिगुणं पञ्चलवणं मातुलुङ्गरसेन च ॥ काचकुप्यान्तु सप्ताहं वासयेदम्लयोगतः । शङ्खचूर्णपलं दत्त्वा वारुणीयन्त्रमुद्धरेत् ॥ सर्व्वधातून् हरेच्छीघ्रं वराटीशङ्खकादिकान् । उदरादिसर्व्वरोगाणां सद्यो हि नाशकः परः ॥” इति शङ्खद्रावकः ॥ * ॥ अपि च । “योगिनीभैरवाभ्याञ्च बलिमादौ प्रदापयेत् । पश्चाद्यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी ॥ रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः । गुह्याद्गुह्यतमं गुह्यमिदानीं कथ्यते मया ॥ शङ्खचूर्णं यवक्षारं सर्ज्जिकाक्षारटङ्गणम् । समञ्च पञ्चलवणं स्फटिकारी नृशादरः ॥ काचकुप्यां ततः क्षिप्त्वा वारुणीयन्त्रमुद्धरेत् । यामार्द्धं द्रावयत्येष शङ्खशुक्तिवराटकान् ॥ अर्शांसि नाशयेत् षट् च मूत्रकृच्छ्राश्मरीं तथा । उदराष्टविधं हन्ति गुल्मप्लीहोदराणि च ॥ अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम् । भुक्तशेषे च भोक्तव्यो माषमात्रो रसोत्तमः ॥ क्षणमात्राद्भवेद्भस्म पुनर्भोजनमिच्छति । प्रत्यहं भोजनान्ते च संसेव्योऽयं रसोत्तमः ॥ न रुजायां भयं क्वापि सत्यं सत्यं वदाम्यहम् । न देयं यस्य कस्यापि सदा गोप्यञ्च कारयेत् । रसः शङ्खद्रवो नाम वैद्यानामुपकारकः ॥” शङ्खद्रावको रसः । इति भैषज्यरत्नावली ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खद्रावक¦ पु॰ आर्षधविशेषे। तत्पाकादि यथा
“अर्क-[Page5079-b+ 38] स्नुही तथा चिङ्क्षा तिलारग्बधचित्रकम्। अपामा{??}भस्मसमं वस्त्रपूतं जलं हरेत्। मृद्वग्निना पचेद्त्तत्तु याश्च-ल्लवणताङ्गतम्। लवणेन समौ ग्राह्यौ द्वौ क्षारौ टङ्गणंतथा। समुद्रफेनगोदन्तकाशीशं सोरका तथा। द्विगुणं पञ्चलवणं मातुलुङ्गरसेन च। काचकूप्यान्तुसप्ताहं वासयेदम्लयोगतः। शङ्खचूर्णपलं दत्त्वा वारुणीयन्त्रमुद्धरेत्। सर्वधातून् हरेच्छीध्रं वराटीशङ्खका-दिकान्। उदरादिकरोगाणां सद्यो हि नाशकःपरः” भैषज्यर॰
“योगिनीभैरवाभ्याञ्च बलिमादौप्रदापयेत्। पश्चाद् यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी। रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः। गुह्याद्नुह्यतमं गुह्यमिदानीं कथ्यते मया। शङ्खचूर्णं यव-क्षारं सर्जिकाक्षारटङ्गणम्। समञ्च पञ्चलवणं स्फ-टिकारी नृशादरः। काचकूप्यां तत्र क्षिप्वा वारुणीयन्त्रमुद्धरेत्। यामार्द्धं द्रावयत्येष शङ्खशुक्तिवरा-टकान्। अर्शांसि नाशयेत् षट् च मूत्रकृच्छ्राश्मरींतथा। उदराष्टविधं हन्ति गुल्मप्लीहोदराणि च। अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम्। भुक्त-शेषे च भोक्तव्यो माषमात्रोरसोत्तमः। क्षणमात्रा-द्भवेत् भस्म पुनर्भोजनमिच्छति। प्रत्यहं भोजनान्ते चसंसेघ्योऽयं रसोत्तमः। न रुजायां भयं क्वापि सत्यंसत्यं वदाम्यहम्। न देयं यस्य कस्यापि सदा गोप्यञ्चकारयेत्। रसः शङ्खद्रवो बास वैद्यानामुपकारकः”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खद्रावक/ शङ्ख--द्रावक m. a solvent for dissolving the conch or other shells (used in medicine) L.

"https://sa.wiktionary.org/w/index.php?title=शङ्खद्रावक&oldid=308023" इत्यस्माद् प्रतिप्राप्तम्