सामग्री पर जाएँ

शङ्खपुष्पी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खपुष्पी, स्त्री, (शङ्खवत् पुष्पं यस्याः । ङीष् ।) वृक्षविशेषः । शङ्खाहुली इति डानकुनी इति च भाषा । तत्पर्य्यायः । सुपुष्पी २ शङ्खाह्वा ३ कम्बुमालिनी ४ पीतपुष्पी ५ कम्बुपुष्पी ६ मेध्या ७ मलविनाशिनी ८ किरिटी ९ शङ्खकुसुमा १० भूलग्ना ११ शङ्खमालिनी १२ । अस्या गुणाः । हिमत्वम् । तिक्तत्वम् । मेधास्वर- कारित्वम् । ग्रहभूतादिदोषनाशित्वम् । वशी- करणसिद्धिदातृत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शङ्खपुष्पी तु तीक्ष्णोष्णा मेध्या क्रिमिविषा- पहा ॥” इति राजवल्लभः ॥ अन्न्यच्च । “शङ्खपुष्पी तु शङ्खाह्वा मङ्गल्या कुसुमापि च । शङ्खपुष्पी सरा मेध्या वृष्या मानसरोगनुत् ॥ रसायनी कषायोष्णा स्मृतिकान्तिबलाग्निदा । दोषापस्मारभूतासृक्कुष्ठक्रिमिविषप्रणुत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खपुष्पी¦ स्त्री शङ्ख इव पुष्पमस्याः ङीष्। (शङ्खाली)वृक्षे राजनि॰।
“शङ्खपुष्पी तु तीक्ष्णोष्णा मेध्याकृमिविषापहा”। राजवल्लभः
“शङ्खपुष्पी सरा मेध्याकृष्णा मानसरोगनुत्। रसायनी कषायोष्णा स्मृति-कान्तिवलाग्निदा। दोषापस्मरभूतासृक्कुष्ठक्रमिविष-प्रणुतः” भावप्र॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खपुष्पी¦ f. (-ष्पी) A sort of grass, (Andropogon aciculatum.) E. शङ्ख conch, पुष्प a flower, ङीप् aff., implying resemblance.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शङ्खपुष्पी/ शङ्ख--पुष्पी f. id. Vas. Sus3r. (711618 -शृतmfn. boiled with the above plant Mn. xi , 148 )

शङ्खपुष्पी/ शङ्ख--पुष्पी f. Canscora Decussata L.

"https://sa.wiktionary.org/w/index.php?title=शङ्खपुष्पी&oldid=308162" इत्यस्माद् प्रतिप्राप्तम्