सामग्री पर जाएँ

शचीपतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शचीपतिः, पुं, (शच्याः पतिः ।) इन्द्रः । इत्यमरः ॥ (यथा, मार्कण्डेये । १५ । ७० । “यदि जानासि धर्म्म त्वं त्वं वा शक्र शचीपते । मम यावत् प्रमाणन्तु शुभं तद्बक्तुमर्हतः ॥” कर्म्मपालके, त्रि । यथा ऋग्वेदे । ७ । ६७ । ५ । “शक्तं शचीपती शचीभिः ॥” “हे शचीपती शचीति कर्म्मनाम कर्म्मणां पालकौ ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=शचीपतिः&oldid=169606" इत्यस्माद् प्रतिप्राप्तम्