सामग्री पर जाएँ

शटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शटी, स्त्री, (शटि + वा ङीष् ।) स्वनामख्यातौ- षधिः । वन आदा इति भाषा । कचूर इति हिन्दी भाषा । तत्पर्य्यायः । गन्धमूली २ षड्ग्रन्थिका ३ कर्व्वूरः ४ पलाशः ५ । इत्य- मरः ॥ सटी ६ षटी ७ गन्धशटी ८ कर्व्वुरः ९ कर्च्चूरः १० । इति भरतादयः ॥ सुगन्धा ११ सटिः १२ शटिः १३ गन्धमूला १४ गन्धोलिः १५ गन्धमूलकः १६ । इति शब्दरत्नावली ॥ गन्ध- सटा १७ बधूः १८ गन्धमूलम् १९ । इति जटाधरः ॥ जीमूतमूलम् २० कच्छोरम् २१ हिमजा २२ । इति रत्नमाला ॥ हैमी २३ षड्ग्रन्थिः २४ सुव्रता २५ गन्धाली २६ पलाशा २७ हिमा २८ । इति ग्रन्थान्तरम् ॥ षड्ग्रन्था २९ आम्लनिशा ३० सुगन्धमूला ३१ गन्धाली ३२ शटीका ३३ पलाशिका ३४ सुभद्रा ३५ तृणी ३६ दूर्व्वा ३७ गन्धा ३८ पृथुपलाशिका ३९ सौम्या ४० हिमोद्भवा ४१ गन्धबधूः ४२ । अस्या गुणाः । तिक्तत्वम् । अम्लरसत्वम् । लघुत्वम् । उष्णत्वम् । रुचि- कारित्वम् । ज्वरकफास्रकण्डुव्रणदोषरक्तामय- ध्वंसकारित्वम् । हृद्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । अथ गन्धपलाशी सुगन्धद्रव्यं काश्मीरे प्रसिद्धम् । “शटी पलाशी षड्ग्रन्था सुव्रता गन्ध- मूलिका । गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका ॥ भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः । तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी । शोषकासव्रणश्वासशूलाध्मानग्रहापहा ॥” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शटी स्त्री।

कचूरः

समानार्थक:शटी,गन्धमूली,षड्ग्रन्थिका,कर्चूर,पलाश

2।4।154।1।2

संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि। कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शटी¦ f. (-टिः or टी) Zedoary, (Curcuma zerumoot,) otherwise considered as a synonime of the Ambahaldi, or Carcumt A4mhaldi4, the mango- smelling ginger, so termed because the fresh root possesses the smell of a green mango. E. शट् to divide, (remove disease,) aff. इन् and ङीष् optionally added.

"https://sa.wiktionary.org/w/index.php?title=शटी&oldid=308596" इत्यस्माद् प्रतिप्राप्तम्