शणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शणः, पुं, (शण + पचाद्यच् ।) स्वनामख्यातक्षुपः । तत्पर्य्यायः । माल्यपुष्पः २ वमनः ३ कटु- तिक्तकः ४ निशावनः ५ दीर्घशाखः ६ त्वक् सारः ७ दीर्घपल्लवः ८ । अस्य गुणाः । अम्लत्वम् । कषायत्वम् । मलगर्भास्रपातनत्वम् । वातकारित्वम् । पित्तकफतीव्राङ्गमर्द्दनाशित्वञ्च । इति राजनिर्घण्टः ॥
