शणसूत्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शणसूत्रम्, क्ली, (शणस्य सूत्रम् ।) पवित्रकम् । इत्यमरः ॥ “द्वे शणसूत्रजाले । शणस्य सूत्रं शणसूत्रम् । शणति ददाति सूत्रं शणः । शण श्रन्म दाने अन् । शणः तालव्यशादिर्मूर्द्धन्य- णान्तः इति बहवः । सनो दन्त्यसादिर्दन्त्यनान्त इति केचित् । तन्मते षन द ञु दाने इत्यस्य रूपम् । सणो दन्त्यसादिर्मूर्द्धन्यणान्त इत्यपरे । सणकिणमणिकाकणकोणकाणा इति मूर्द्धन्य- णान्ते विद्याभरणम् ॥ ‘कार्पासमुपवीतं स्याद्विप्रस्योर्द्ध्ववृतं त्रिवृत् । सनसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥’ इति मनुवचनात् पवित्रकमपि तदुच्यते । आनाय इत्यादि चतुष्कं जाले इत्येके । आनाय इद्यादि श्लोकार्द्धं क्वचिद्दृश्यते तत् स्वाम्याद्युपेक्षितमपि अन्यैरादृतमिति विवृतम् ।” इति तट्टीकायां भरतः ॥
