शतक्रतुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतक्रतुः, पुं, (शतं क्रतवो यस्य ।) इन्द्रः । इति धनञ्जयकोषः ॥ (यथा, महाभारते । ३ । ४२ । १२ । “आह मामरश्रेष्ठः पिता तव शतक्रतुः ॥” बहुकर्म्मा । बहुप्रज्ञः । यथा, ऋग्वेदे । १ । १० । १ । “ब्रह्माणस्त्वा शतक्रत उद्वंशामिव येमिरे ॥” “हे शतक्रतो बहुकर्म्मन् बहुप्रज्ञ वा ।” इति तद्भाष्ये सायणः ॥)
