सामग्री पर जाएँ

शतद्रुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शतद्रुः, स्त्री, (शतधा द्रवतीति । शत + द्रु । “शतेच” उणा० १ । ३६ । इति कुः ।) नदीविशेषः । शतलज् इति हिन्दी भाषा । सा हिमालया- दुत्पन्ना विपाशायां मिलिता । (अस्या नाम- निरुक्तिर्यथा, महाभारते । १ । १७८ । ९ । “शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥”) तत्पर्य्यायः । शितद्रुः २ । इत्यमरः ॥ शुतुद्रिः ३ शतद्रूः ४ । पुत्त्रशोकसन्तप्तो वशिष्ठः कण्ठे शिलां बद्ध्वानद्यामस्यां प्रविष्टस्ततो भीत्या इयं शतधा द्रुता इति शतद्रुः । इति तट्टीकायां भरतः ॥ (एतद्वृत्तान्तस्तु महाभारते । १ । १७८ । अध्याये द्रष्टव्यः ॥) अस्या जलगुणाः । “शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्व्वामयघ्नम् । जलं निर्म्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च ॥” इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=शतद्रुः&oldid=169669" इत्यस्माद् प्रतिप्राप्तम्