शतपत्री
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतपत्री, स्त्री, (शतं पत्राणि यस्याः । ङीप् ।) पुष्पविशेषः । सेउती इति भाषा । पाटल- वर्णासौ गोलाव इति वदन्ति । तत्पर्य्यायः । सुमनाः २ सुशीता ३ शिववल्लभा ४ सौम्य- गन्धी ५ शतदला ६ सुवृत्ता ७ शतपत्रिका ८ । अस्या गुणाः । हिमत्वम् । तिक्तत्वम् । कषा- यत्वम् । कुष्ठमुखस्फोटपित्तदाहनाशित्वम् । रुच्यत्वम् । सुरभित्वञ्च । इति राजनिर्घण्टः ॥
