शतपदचक्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतपदचक्रम्, क्ली, (शतं पदानि कोष्ठा यस्य तच्च तच्चक्रञ्चेति ।) नाम्ना नक्षत्रज्ञानार्थं चक्रम् । यथा, -- “चक्रं शतपदं वक्ष्ये ऋक्षांशाक्षरसम्भवम् । नामादिवर्णतो ज्ञेया ऋक्षराश्यंशकास्तथा ॥ तिर्य्यगूर्द्ध्वगता रेखा रुद्रसंख्या लिखेद्बुधः । जायते कोष्ठकानाञ्च शतैकं १०० नात्र संशयः ॥ अ-व-क-ह-डा ऐशान्यां म-ट प-र-ता हरिति चाग्नेय्याम् । न-य-भ-ज-खा नैरृत्यां ग-स-द-च-ला व्याय- व्याम् ॥ पञ्च पञ्च क्रमेणैव विंशवर्णान् प्रयोजयेत् । पञ्चस्वरसमायोगे एकैकं पञ्चधा कुरु ॥ अवर्णाद्यास्त्रयो ज्ञेयाः सन्ध्यक्षरयुतास्तथा । सजातीयैक्यमास्थाय पञ्चस्वरविनिर्णयः ॥ ऋदॢतोरप्यकारेण शेन सस्य परिग्रहः । कुर्य्यात् कु-पु-भु-दुस्थाने त्रीणि त्रीण्यक्षराणि च ॥ कु-घ-ङ-छा भवेत् स्तम्भे रौरे त्वीशानगोचरे । पु-ष-ण-ठा भवेत् स्तम्भे हस्ते चाग्नेयसंज्ञके ॥ भु-ध-फ-ढा भवेत् स्तम्भे पूर्व्वाषाढे च नैरृते । दु-थ-झ-ङा भवेत् स्तम्भे वायव्ये भाद्र उत्तरे ॥ एवं स्तम्भचतुष्कञ्च ज्ञातव्यं स्वरवेदिभिः ॥ धिष्ट्यानि कृत्तिकादीनि प्रत्येकं चतुरक्षरैः । साभिजिन्त्यंशकास्तत्र शतैकं द्बादशाधिकम् ॥ यदृक्षांशककोष्ठस्थः क्रूरः सौम्योऽपि वा ग्रहः । तत्रस्थो वेधयेत् सम्यक् पुंसो नामादिमाक्षरम् ॥ सौम्यैर्विद्धं शुभं ज्ञेयमशुभं पापखेचरैः । मिश्रैर्मिश्रफलं तत्र निर्व्वेधेन शुभाशुभम् ॥ यद्बाच्यं सर्व्वतोभद्रे ग्रहोपग्रहवेधतः । शुमाशुभफलं सर्व्वं तदिहापि विचिन्तयेत् ॥” पञ्चस्वरा अ-इ-उ-ए-ओकारास्तैर्योगे धिष्ट्यानि नक्षत्राणि । अत्र चतुर्भिर्व्वर्णैरेकनक्षत्रं यथा, -- अ इ उ ए ३ । ओ व वि वु ४ । वे वो क कि ५ । कु घ ङ छ ६ । के को ह हि ७ । हु हे हो ड ८ । डि डु डे डो ९ । म मि मु मे १० । मो ट टि टु ११ । टे टो प पि १२ । पु ष ण ठ १३ । पे पो र रि १४ । रु रे रो त १५ । ति तु ते तो १६ । न नि नु ने १७ । नो य यि यु १८ । ये यो भ भि १९ । भु ध फ ढ २० । भे भो ज जि २१ । जु जे जो ख । ० । खि ख खे खो २२ । ग गि गु गे २३ । गो श शि शु २४ । शे षो द दि २५ । दु थ झ ञ २६ । दे दो च चि २७ । चु चे चो ल १ । लि लु ले लो २ । ऋऌयुक्तः अकारयुक्तेन ज्ञेयः । ह्रस्वेन दीर्घो ज्ञेयः । तालव्यशकारेण दन्त्यसकारो ज्ञेयः । इति शतपदचक्रम् । इति ज्योतिस्तत्त्वम् ॥
