शतभिषा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतभिषा, स्त्री, अश्विन्यादिसप्तविंशतिनक्षत्रान्त- र्गतचतुर्विंशनक्षत्रम् । तत्पर्य्यायः । शतभिषक् २ । इति शब्दरत्नावली ॥ अस्या आकृतिर्मण्डला- कारशततारामयी । यथा, -- “मण्डलाभशततारकाकुलै- र्मध्यभाजि नभसः प्रचेतसि । बाणशैलधरणीमिताः कलाः शारदेन्दुमुखि तावुरेर्ययुः ॥” दं २ । पं ५५ । इति कालिदासकृतरात्रिलग्नमाननिरूपणम् ॥ अस्या अधिष्ठातृदेवता वरुणः । यथा, -- “अश्वियमदहनकमलजशशिशूलभृददितिजीव- फणिपितरः । योन्यर्यमदिनकृत्तष्टृपवनशक्राग्निमित्राः ॥ शक्रो निरृतिस्तोयं विश्वविरिञ्ची हरिर्व्वसु- र्व्वरुणः । अजपादोऽहिव्रध्नः पूषा चेतीश्वरा भानाम् ॥” सा तु अधोमुखी । यथा, -- “अश्लेषवह्नियमपित्र्यविशाखयुक्तं पूर्व्वात्रयं शतभिषा च नवाप्युडूनि । एतान्यधोमुखगणानि शिवानि नित्यं विद्यार्घ्यभूमिखननेषु च तूषितानि ॥” इति ज्योतिस्तत्तम् ॥ * ॥ तत्र जातफलम् । “शीतभीतिरतिसाहसी सदा निष्ठुरो हि चतुरो नरो भवेत् । वैरिणामतिशयेन दारुणो वारुणोडु यदि यस्य सम्भवे ॥” इति कोष्ठीप्रदीपः ॥ * ॥ तत्र जातस्य मिश्रगुणाः । यथा । “शतानलादित्यविशाखमैत्र- शक्रोद्भवा मिश्रगुणाः प्रदिष्टाः । शिवाजहस्ताहिभवा जघन्याः शेषोद्भवाः सत्पुरुषा भवन्ति ॥” * ॥ रविवारादौ शतभिषादियोगे ज्वरोत्पत्तिफलं यथा, -- “शिवशतभिषावातो याम्यसर्पस्त्रिपूर्व्वाः शनिरविकुजवारे भूतगोष्ठीनवम्याम् । इह हि मरणयोगे यो हि रोगोपयुक्तः पशुपतिसमदेहः सोऽपि मृत्युं प्रयाति ॥ उत्तरे विंशतिर्ज्ञेया द्बौ मासौ श्रवणे तथा । धनिष्ठायामर्द्धमासं वारुणेन दशाहकम् ॥” इति ज्योतिःसारधृतकौशिकवचनम् ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतभिषा¦ f. (-षा) The twenty-fifth of the Nakshatras or lunar mansions, containing 100 stars, one of which is Aquarii. E. शत a hundred, भिषज् to cure, aff. ड; requiring many physicians; as the Hindus say DHANWANTARI himself can not cure any person affected with disease, whilst the moon is in this asterism.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतभिषा/ शत--भिषा f. = शतभिषज्N. of a नक्षत्रMBh. Hariv. etc.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a constellation. भा. V. २३. 6.