सामग्री पर जाएँ

शतमन्युः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शतमन्युः, पुं, (शतं मन्यवः क्रतवो यस्य ।) इन्द्रः । इत्यमरः ॥ (यथा, भागवते । १ । ८ । ६ । “याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥” शतयज्ञकारिणि, त्रि । यथा, बृहत्संहि- तायाम् । ४३ । ५४ । “त्वमन्तकः सर्व्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीड्यः ॥” बहुक्रोधे च त्रि । यथा, ऋग्वेदे । १० । १०३ । ७ । “वीरः शतमन्युरिन्द्रः ।” “शतमन्युः बहुयज्ञः बहुक्रोधो वा ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=शतमन्युः&oldid=169714" इत्यस्माद् प्रतिप्राप्तम्