शतमूली
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतमूली, स्त्री, (शतं मूलानि यस्याः । “पाककर्णेति ।” ४ । १ । ६४ । ङीष् ।) स्वनामख्यातौषधविशेषः । तत्पर्य्यायः । बहुसुता २ अभीरुः ३ इन्दीवरी ४ वरी ५ ऋष्यप्रोक्ता ६ भीरुपत्री ७ नारा- यणी ८ शतावरी ९ अहेरुः १० । इत्यमरः ॥ रङ्गिणी ११ शटी १२ द्बीपिशत्रुः १३ । इति जटाधरः ॥ ऋष्यगता १४ । इति शब्दरत्ना- वली ॥ शतपदी १५ पीवरी १६ धीवरी १७ वृष्या १८ दिव्या १९ दीपिका २० दरकण्ठिका २१ सूक्ष्मपत्रा २२ सुपत्रा २३ बहुमूला २४ शताह्वया २५ स्वादुरसा २६ शताह्वा २७ लघुपर्णिका २८ आत्मगुप्ता २९ जटा ३० मूला ३१ शतवीर्य्या ३२ महौषधी ३३ मधुरा ३४ शतमूला ३५ केशिका ३६ शतपत्रिका ३७ विश्वस्था ३८ वैष्णवी ३९ पार्ष्णी ४० वामुदेव- प्रियङ्करी ४१ दुर्मना ४२ तैलवल्ली ४३ । अस्या गुणाः । वृष्यत्वम् । मधुरत्वम् । हिमत्वम् । मेह- कफवातपित्तनाशित्वम् । तिक्तत्वम् । श्रेष्ठत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शतावरी बहुसुता भीरुरिन्दीवरी वरी । नारायणी शतपदी शतवीर्य्या च पीवरी ॥ महाशतावरी त्वन्या शतभूल्यूर्द्ध्वकण्टिका । सहस्रवीर्य्या हेतुश्च ऋष्यप्रोक्ता महोदरी ॥ शतावरी गुरुः शीता तिक्ता स्वाद्वी रसायणी । मेधाग्निपुष्टिदा स्निग्धा नेत्र्या गुल्मातिसार- जित् । शुक्रस्तन्यकरी बल्या वातपित्तास्रशोथजित् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “शतावरी वातपित्तमेहकुष्ठहरा सरा ।” इति राजवल्लभः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतमूली स्त्री।
शतावरी
समानार्थक:शतमूली,बहुसुता,भीरु,इन्दीवरी,वरी,ऋष्यप्रोक्ता,भीरुपत्री,नारायणी,शतावरी,अहेरु
2।4।100।2।1
शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे। शतमूली बहुसुताभीरूरिन्दीवरी वरी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतमूली¦ f. (-ली) A plant, (Asparagus racemosus.) E. शत a hundred or many, मूल a root, fem. aff. ङीष्; also with कन् added शतमूलिका |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतमूली/ शत--मूली f. Asparagus Racemosus L.