शतसहस्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शतसहस्रम्, क्ली, (शतगुणितं सहस्रम् । मध्यपद- लोपिकर्म्मधारयः ।) शतगुणितसहस्रम् । लक्ष- मिति यावत् । यथा हारीतः । मणिवासो गवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत् पञ्च मध्यमे दशोत्तमे द्वादशरात्रं पयोव्रतं शतसहस्र- मसत्प्रतिग्रहेष्विति । इति शुद्धितत्त्वम् ॥ (यथा च हरिवंशे । १२१ । १३ । “अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः ॥”)
