शताङ्गः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शताङ्गः, पुं, (शतं अङ्गानि अवयवा यस्य ।) रथः । इत्यमरः ॥ तिनिसवृक्षः । इति राज- निर्घण्टः ॥ (दानवविशेषः । यथा, हरिवंशे । २३२ । ६ । “करालो ज्वालजिह्वश्च शताङ्गः शतलोचनः ॥” शतावयवविशिष्टे, त्रि । यथा, महाभारते । १ । १८९ । २२ । “शताङ्गानि च तुर्य्याणि वादकाः समवाद- यन् ॥”)
