सामग्री पर जाएँ

शतानीकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शतानीकः, पुं, (शतं अनीकानि यस्य ।) वृद्धः । मुनिभेदः । स तु व्यासशिष्यः । राजभेदः । स च चतुर्थयुगे चन्द्रवंशीयद्वितीयराजः । तस्य पिता जनमेजयः पुत्त्रः सहस्रानीकः । इति मेदिनी ॥ सुदासराजपुत्त्रः । इति श्रीभागवते ९ स्कन्धे २२ अध्यायः ॥ (नकुलपुत्त्रः । यथा, महाभारते । १ । २३४ । १० । “पुत्त्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः । श्रुतकर्म्मार्ज्जुनिश्चैव शतानीकश्च नाकुलिः ॥ सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः । सर्व्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव ॥”)

"https://sa.wiktionary.org/w/index.php?title=शतानीकः&oldid=169743" इत्यस्माद् प्रतिप्राप्तम्