शनिचक्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शनिचक्रम्, क्ली, (शनेश्चक्रम् ।) नृणां शुभाशुभ- ज्ञानार्थशनिभोग्यनक्षत्रादिसप्तविंशतिनक्षत्रयुक्त- नराकारचक्रम् । यथा, -- “शनिचक्रं नराकारं लिखित्वा सौरिभादितः । नाम ऋक्षं भवेद्यत्र फलं तत्र शुभाशुभम् ॥ एकं मुखे दक्षहस्ते चत्वारि षट् पदद्बये । हृदि पञ्च करे वामे चत्वारि मस्तके त्रयम् ॥ द्वयं नेत्रद्बये गुह्ये द्वयं तत्र न्यसेद्बुधः । मुखे हानिर्जयो दक्षे भ्रमः पादे श्रियो हृदि । वामे भीर्मस्तके राज्यं नेत्रे सौख्यं मृतिर्गुदे ॥ तूर्य्याष्टद्बादशे ऋक्षे यदा विघ्नकरः शनिः । तदा सौख्यं वपुःस्थन्तु हृच्छीर्षे नेत्रदक्षयोः ॥ तृतीयैकादशे षष्ठे यदा सौख्यकरः शनिः । तदा विघ्नः शरीरस्थो गुह्ये वक्त्रेऽङ्घ्रिवामयोः ॥ यस्य पीडाकरः शौरिस्तस्य चक्रे फलन्त्विदम् । लिखित्वा कृष्णद्रव्येण तैलमध्ये क्षिपेत्ततः ॥ निक्षिप्य भूमिमध्यस्थं कृष्णपुष्पैः प्रपूजयेत् । तुष्टिं याति न सन्देहः पीडां त्यक्त्वा शनैश्चरः ॥” इति ज्योतिस्तत्त्वम् ॥
