सामग्री पर जाएँ

शपथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शपथः, पुं, (शप क्रोशे + “शीङ्शपिरुशमौति ।” उणा० ३ । ११३ । इति अथः ।) अनृतं वदन् घोरं नरकं यास्यामि इत्येवं रूपं मिथ्यानिर- मनम् । सत्यावधारणम् । इति साञ्झः । वाचा शरीरस्पर्शनम् । इति गोयीचन्द्रः ॥ शपथो दिव्यम् । इति रमानाथः । इति भरतः ॥ तत्- “आचतुर्द्दशकादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥” व्यसनमापत् । धोरमतिपीडाकरम् । तथा च कोषाधिकारे यस्य पश्येदित्यनुवृत्तौ विष्णुः । “रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा । तमशुद्धं विजानीयात्तथा शुद्धं विपर्य्ययात् ॥” कात्यायनः । “तस्यैकस्य न सर्व्वस्य जनस्य यदि सम्भवेत् । रोगोऽग्निर्ज्ञातिमरणमृणं दद्यात् दमञ्च सः ॥ ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् । नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ॥ शिरोरुगगुदभङ्गश्च दैविका व्याधयो नृणाम् ॥” तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः । “न वृथा शपथं कुर्य्यात् स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्व्वन् प्रेत्य चेह च नश्यति ॥ कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥” कामिनीष्विति रहसि कामिनीसन्तोषार्थं वृथा शपथः । एवं विवाहसिद्ध्यर्थं गोग्रासार्थं आवश्यकहोमेन्धनार्थं ब्राह्मणरक्षार्थमङ्गीकृत- धनादौ । यमः । “वृथा तु शपथं कृत्वा कीटस्य वधसंयुतम् । अनृतेन च युज्येत वधेन च तथा नरः । तस्मान्न शपथं कुर्य्यान्नरो मिथ्यावधेप्सितम् ॥” कीटस्येति प्राणिमात्रोपलक्षणम् । तद्बधपापेन वृथाशपथकर्त्ता युज्यत इत्यर्थः । इति व्यवहार- तत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शपथः [śapathḥ], [शप्-अथन् Uṇ.3.112]

Cursing.

A curse, an imprecation, anathema.

An oath, swearing, taking or administering an oath, asseveration by oath or ordeal; आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते Bv.1.12; Ms.8.19.

Conjuration, binding by oaths; सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते Māl.3.2. -Comp. -उत्तरम्, -पूर्वकम् ind. with oaths. -करणम् taking an oath. -पत्रम् an affidavit, a statement on oath.

"https://sa.wiktionary.org/w/index.php?title=शपथः&oldid=312069" इत्यस्माद् प्रतिप्राप्तम्