सामग्री पर जाएँ

शमनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शमनम्, क्ली, (शम + ल्युट् ।) यज्ञार्थपशुहननम् । इत्यमरः ॥ शान्तिः । इति मेदिनी ॥ (यथा, पाणिनौ । ५ । १ । ३८ । “वातस्य शमनं कोपनं वा ।” इति काशिका ॥) चर्व्वणम् । इति धरणिः ॥ हिंसा । इति हेमचन्द्रः ॥ (प्रतिसंहारः । यथा, मार्कर्कण्डेये । ७८ । १३ । “निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः । प्रसीद स्वेच्छया रूपं स्वतेजःशमनं कुरु ॥” निवारकः । यथा, तत्रैव देवीमाहात्म्ये । “दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=शमनम्&oldid=169835" इत्यस्माद् प्रतिप्राप्तम्