शमीधान्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शमीधान्यम्, क्ली, (शमी यज्ञादिकर्म्म तदर्थं धान्यम् ।) माषादिः । इत्यमरः ॥ तत्पर्य्यायगुणाः । “शमीजाः शिम्बिजाः शिम्बातराः सूप्याश्च वैदलाः । वैदला मधुरा रूक्षाः कषायाः कटुपाकिनः ॥ वातलाः कफपित्तघ्ना बद्धमूत्रमला हिमाः । ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ॥” मुद्गमसूरयोराध्मानकारित्वमन्यद्वैदलापेक्षया । नतु सर्व्वथा । एतयोरपि किञ्चिदाध्मान- कारित्वदर्शनात् । इति भावप्रकाशः ॥ * ॥ अपि च । “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । परतो वातकृद्रूक्षं प्रायेणातिनवं गुरु ॥ यवगोधूममाषाश्च तिलाश्चातिनवा हिताः । पुराणा विरसा रूक्षा न तथार्थकरा मताः ॥” इति राजवल्लभः ॥
