सामग्री पर जाएँ

शम्बः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शम्बः, पुं, (शम् + “शमेर्व्वन् ।” उणा० ४ । ९४ । इति वन् । यद्वा, शमस्त्यस्येति । शं + “कंशंभ्यां वभयुस्तितुतयसः ।” ५ । ६ । १३८ । इति वः ।) वज्रम् । (यथा, ऋग्वेदे । १० । ४२ । ७ । “उग्रो यः शम्बः पुरुहूत तेन ।” “शम्ब इति वज्रनाम ।” इति तद्भाष्ये सायणः ॥) मुषलाग्रस्थलोहमण्डलकम् । इति मेदिनी ॥ लौहकाञ्ची । इति हेमचन्द्रः ॥ अनुलोमकर्ष- णम् । इति शम्बाकृतशब्दटीकायां भरतः ॥ दरिद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥ भाग्य- वति, त्रि । इति रामाश्रमः ॥

"https://sa.wiktionary.org/w/index.php?title=शम्बः&oldid=169871" इत्यस्माद् प्रतिप्राप्तम्