सामग्री पर जाएँ

शम्बरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शम्बरः, पुं, मृगविशेषः । दैत्यविशेषः । इति मेदिनी ॥ (यथा, ऋग्वेदे । १ । ५१ । ६ । “अरन्धयो तिथिग्वाय शम्बरम् ।” “शम्बरं एतन्नामानमसुरम् ।” इति तद्भाष्ये सायणः ॥ यथा च महाभारते । १ । ६५ । २२ । “शम्बरो नसुचिश्चैव पुलोमा चेति विश्रुतः । असिलोमा च केशी च दुर्ज्जयश्चैव दानवः ॥”) मत्स्यविशेषः । शैवविशेषः । जिनभेदः । इति विश्वः ॥ युद्धम् । श्रेष्ठः । इति धरणिः ॥ चित्रकवृक्षः । लोध्रः । अर्ज्जुनवृक्षः । इति राजनिर्घण्टः ॥ शम्बरासुरस्य वधोपाख्यानं श्रीभागवते १० स्कन्धे ५५ अध्याये द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=शम्बरः&oldid=169874" इत्यस्माद् प्रतिप्राप्तम्