सामग्री पर जाएँ

शम्याक्षेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शम्याक्षेपः, पुं, (शम्यायाः क्षेपो यत्र ।) भ्रमित- क्षिप्तयष्टिप्राप्तयावद्भूप्रदेशः । यथा, -- “भ्रामयित्वा बहुगुणं यष्टिः क्षिप्ता समाप्नुयात् । भुवः प्रदेशं यावन्तं शम्याक्षेपः स उच्यते ॥” इति मार्कण्डेयपुराणे विविंशचरितं नामा- ध्यायः ॥ (यज्ञविशेषः । यथा, महाभारते । ३ । ९० । ५ । “पुण्यञ्चाख्यायते दिव्यं शिवमग्निशिरोऽनघ । सहदेवोऽयजत् यत्र शम्याक्षेपेण भारत ! ॥” “बलवता क्षिप्ता शम्या लगुडविशेषो यावद्दूरं पतेत् तावान् यज्ञमण्डपो यस्मिन् यज्ञे न शम्या- क्षेपस्तेन ।” इति तट्टीकायां नीलकण्ठः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शम्याक्षेप/ शम्या--क्षेप m. the cast of a staff , distance that a staff can be thrown MBh.

"https://sa.wiktionary.org/w/index.php?title=शम्याक्षेप&oldid=314539" इत्यस्माद् प्रतिप्राप्तम्