सामग्री पर जाएँ

शयथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शयथः, पुं, (शेते इति । शीङ् + “शीङ्शपिरुशमि- जीविप्राणिभ्योऽथः ।” उणा० ३ । ११३ । इति अथः ।) अजगरः । मृत्युः । निद्रालुः । इति हेमचन्द्रः ॥ वराहः । मत्स्यः । इति संक्षिप्त- सारोणादिवृत्तिः ॥ (मरणम् । यथा, ऋग्वेदे । ६ । १७ । ९ । “विश्वायुः शयथे जघान ॥” “शयथे शयननिमित्ते मरणायेत्यर्थः ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=शयथः&oldid=169919" इत्यस्माद् प्रतिप्राप्तम्