शरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शरः, पुं, (शॄणात्यनेनेति । शॄ गि हिंसे + “ऋदो रप् ।” ३ । ३ । ५७ । इति अप् ।) बाणः । इत्यमरः ॥ (यथा, रघुः । १ । ६१ । “तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥”) दध्यग्रभागः । इति मेदिनी ॥ दुग्धशरस्य नामान्तरम् । सन्तालिकः । दधिशरस्य नामा- न्तरम् । दधिसारः । दधिस्नेहः । कट्टरञ्च । इति रत्नमालादयः ॥ तृणविशेषः । का~डा इति हिन्दी भाषा । (यथा, महाभारते । १ । १३८ । १५ । “आचार्य्यः कलसाज्जातो द्रोणः शस्त्रभृतां- वरः । गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥”) तत्पर्य्यायः । इषुः २ काण्डः ३ बाणः ४ मुञ्जः ५ तेजनः ६ गुन्द्रकः ७ । इति रत्नमाला ॥ उत्- कटः ८ शायकः ९ क्षुरः १० इक्षुप्रः ११ क्षुरिकापत्रः १२ विशिखः १३ । अस्य गुणाः । मधुरत्वम् । सतिक्तत्वम् । कोष्णत्वम् । कफ- श्रान्तिमदापहत्वम् । बलवीर्य्यकारित्वम् । नित्यं निषेवितञ्चेत् किञ्चिद्वातकारित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “भद्रमुञ्जः शरो बाणस्तेजनश्चक्षुवेष्टनः । मुञ्जो मुञ्जातको वाणः स्थूलदर्भः सुमेधसः ॥ मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥” इति भावप्रकाशः ॥ उशीरः । महापिण्डीतरुः । इति च राज- निर्घण्टः ॥ हिंसा । इति शॄधात्वर्थदर्शनात् ॥ (ज्योतिषोक्तपञ्चमाङ्कः । यथा, साहित्यदर्पणे । ४ । २६४ । “वेदखाग्निशराः शुद्धैरिषुवाणाग्निसायकाः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शरः [śarḥ], [शॄ-अच्]
An arrow, a shaft; क्व च निशितनिपाता वज्रसाराः शरास्ते Ś.1.1; शरश्च त्रिविधो ज्ञेयः स्त्री पुमाँश्च नपुंसकः । अग्रस्थूलो भवेन्नारी पश्चात्स्थूलो भवेत् पुमान् । समो नपुंसको ज्ञेयः Dhanur. 62-63.
A kind of white reed or grass (Mar. देवनळ, बोरू); कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा Rām.3.15.22; शरकाण्डपाण्डुगण्डस्थला M.3.8; मुखेन सीता शरपाण्डुरेण R.14.26; Śi.11.3.
The cream of slightly curdled milk, cream; आपो वा अर्कस्तद्यदपां शर आसीत् सम- हन्यत सा पृथिवी Bṛi. Up.1.2.2.
Hurt, injury, wound.
The number 'five'; cf. शराग्नि q. v.
(In astr.) The versed sine of an arc.
Kuśa grass; तथा शरेष्वपि MS.8.3.33 (शरशब्दस्यापि कुशेषु प्रयोगो दृश्यते ŚB. on ibid.); भृशरसं शरसंहितकान्तिके Rām. ch.4.7. -रम् Water. -Comp. -अग्निः the number 'thirtyfive'; शराग्निपरिमाणं च तत्रासौ वसते सुखम् Mb.13.17.26. -अग्ऱ्यः an excellent arrow.-अभ्यासः, -आघातः archery. -असनम्, -आस्यम् an arrowshooter, a bow; शरासनं तेषु विकृष्यतामिदम् Ś.6.28; R.3.52; Ku.3.64. -आक्षेपः flight of arrows. -आरोपः, -आवापः a bow; तान् गृहीतशरावापान् Mb.1.189.13; आवापः also means quiver; चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम् Mb. 6.9.61. -आवरः a quiver; शरावरौ शरैः पूर्णौ Rām.3. 64.49. (-रम्) a coat of mail; तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् Rām.3.51.14. -आवरणम् a shield; शितनिस्त्रिंश- हस्तस्य शरावणधारिणः Mb.6.61.28. -आश्रयः a quiver.-आसः a bow; Bhāg. -आहत a. struck by an arrow.-इषीका an arrow. -इष्टः the mango tree. -उपासनम् archery practice; स्मारी शरोपासनवेदिकेव N.14.54. -ओघः a shower or multitude of arrows.
काण़्डः a reedstalk.
a shaft of an arrow. -क्षेपः the range of an arrow-shot. -घातः shooting with arrows, archery.-जम् fresh butter. -जः N. of Kārtikeya. -जन्मन्m. an epithet of Kārtikeya; उमावृषाङ्कौ शरजन्मना यथा R.3.23. -जालम् a multitude or dense mass of arrows; शरजालावृते व्योम्नि च्छायाभूते समन्ततः Mb.4.59.3. -दुर्दिनम् a shower of arrows; Rām. -धिः a quiver; सहशरधि निजं तथा कार्मुकम् Ki.18.16. -पातः an arrow's flight. ˚स्थानम् a bow shot. -पुङ्खः, -पुङ्खा the feathered end of an arrow. -प्रवेगः a swift arrow. -फलम् the blade or barb of an arrow. -भङ्गः N. of a sage whom Rāma visited in the Daṇḍaka forest; अदः शरण्यं शरभङ्ग- नाम्नस्तपोवनं पावनमाहिताग्नेः R.13.45. -भूः N. of Kārtikeya.-भृष्टिः f. the point of an arrow. -मल्लः a bow-man, an archer. -यन्त्रकम् the string on which the palm-leaves of a manuscript are filed.
वनम् (वणम्) a thicket of reeds; आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा Me.47. °reee;उद्भवः, ˚भवः epithets of Kārtikeya.
a bed of Kuśa grass; शरवणमेवेदं कुशवनमिति ŚB. on MS.8.3.33. -वर्षः a shower or volley of arrows.
वाणिः the head of an arrow.
an archer.
a maker of arrows.
a foot-soldier. -वृष्टिःf. a shower of arrows. -व्रातः a mass or multitude of arrows. -संधानम् taking aim with an arrow; शरसंधानं नाटयति Ś.1. -संबाध a. covered with arrows; किमुक्तैः शर- संबाधाम् U.4.28 (v. l.). -स्तम्बः a clump of reeds.
