सामग्री पर जाएँ

शरणिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शरणिः, स्त्री, पन्थाः । इत्यमरः ॥ सरन्त्यनयेति सरणिः नाम्नीति अनिः इदन्तात् पक्षे ईपि सरणी च । “सरणिः श्रोणिवर्त्मनोरिति दन्त्यादौ रभसः ।” शॄ स्वॄ गि हिंसने इत्यस्मात् पूर्व्ववदनौ शरणि- स्तालव्यादिश्च । शुभं शुभे प्रदीप्ते च शरणिः पथि चावनाविति तालव्यादावजयः । इति तट्टीकायां भरतः ॥ पृथ्वी । इत्यजयः ॥ (हिंसा । यथा, ऋग्वेदे । १ । ३१ । १६ । “इमामग्ने शरणिं मीमृषो नः ।” “हे अग्ने नो ऽस्मत्सम्बन्धिनीं इमामिदानीं सम्पादितां शरणिं हिंसां व्रतलोपरूपां मीमृषः क्षमस्व * * * शरणिं शॄ हिंसायामित्यस्मादौ- णादिकः अनिः प्रत्ययः ।” इति तद्भाष्येसायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=शरणिः&oldid=169957" इत्यस्माद् प्रतिप्राप्तम्