शरारिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शरारिः, पुं, (शरं जलं ऋच्छतीति । ऋगतौ + “अच इः ।” इति इः ।) शरालिपक्षी । तत्प- र्य्यायः । आटिः २ आडिः ३ । इत्यमरः ॥ आडी ४ शराडी ५ आडिका ६ शराली ७ शरालिः ८ शराटिः ९ शरालिका १० । इति शब्दरत्नावली ॥ (यथा, ऋतुसंहरे । ४ । ९ । “प्रफुल्लनीलोत्पलशोभितानि शरारिकादम्बविघट्टितानि । प्रसन्नतोयानि सशैवलानि सरांसि चेतांसि हरन्ति यूनाम् ॥”) अस्य गुणाः । पवनापहत्वम् । स्निग्धत्वम् । सृष्टमलत्वम् । वृष्यत्वम् । वातरक्तहरत्वम् । हिमत्वञ्च । इति राजवल्लभः ॥ अपि च । “हंससारसकाचाक्षवकक्रौञ्चशरारिकाः । नन्दीमुखीसकादम्बाः वलाकाद्याः प्लवाः स्मृताः ॥ प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥” इति भावप्रकाशः ॥
