सामग्री पर जाएँ

शरावः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शरावः, पुं, क्ली, (शरं जलं अवति रक्षतीति ॥ अव रक्षणे + अण् ।) मृत्पात्रविशेषः । शरा इति भाषा । तत्पर्य्यायः । वर्द्धमानकः २ । इत्यमरः ॥ मार्त्तिकः ३ सरावः ४ शाला- जिरम् ५ पार्थिवम् ६ मृत्कांस्यम् ७ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । १२६ । “उदितेऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः । कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥”) कुडवद्बयपरिमाणम् । तत्तु चतुःषष्टितोल- कात्मकम् । सेर इति भाषा । तत्पर्य्यायः । मानिका २ । इति शब्दमाला वैद्यकपरि- भाषा च ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शरावः [śarāvḥ] वम् [vam], वम् [शरं दध्यादिसारमवति अव्-अण् Tv.]

A shallow dish, platter, an earthenware vessel, tray; मोदकशरावं गृहीत्वा V.3; Ms.6.56.

A cover, lid.

A measure equal to 2 Kudavas.

"https://sa.wiktionary.org/w/index.php?title=शरावः&oldid=316214" इत्यस्माद् प्रतिप्राप्तम्