शरीरी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शरीरी [न्] पुं, (शरीरमस्यास्तीति । शरीर + इनिः ।) शरीरविशिष्टः । तत्पर्य्यायः । “भवोद्भवौ च प्राणी तु शरीरिजन्युजन्तवः । प्राणभृच्चेतनो जन्मी चित्तन्तु हृदयं मनः ॥” इति जटाधरः ॥ शरीरिलक्षणं यथा, -- “गर्माशयगतं शुक्रमार्त्तवं जीवसंज्ञकः । प्रकृतिः सविकारा च तत् सर्व्वं गर्भसंज्ञकम् ॥ कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । भवेत्तदा स मुनिभिः शरीरीति निगद्यते ॥” अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः । “तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः । मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ॥ आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः । तस्यान्तर्मस्तुलुङ्गश्च ललाटभ्रूयुगं तथा ॥ नेत्रद्वयं तयोरन्तर्व्वर्त्तते द्बे कणीनिके । दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनि ॥ पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छस्कुलीद्बयम् । पाणिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ॥ ओष्ठाधरौ च सृक्कण्यौ मुखं तालु हनुद्वयम् । दन्ताश्च दन्तवेष्टाश्च रसना चिवुकं गलः ॥ द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्य्यते । तृतीयं बाहुयुगलं तदुपाङ्गान्यथो ब्रुवे ॥ तस्योपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः । कफोणियुग्मं तदधः प्रकोष्ठयुगलं तथा ॥ मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश । नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः ॥ चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ व्रुवे । स्तनौ पुंसस्तथा नार्य्या विशेष उभयोरयम् ॥ यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ । गर्भवत्याः प्रसूतायास्तावेतौ क्षीरपूरितौ ॥ हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम् । जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ॥ आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम् । अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ॥”
