शर्कराचल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शर्कराचलः, पुं, (शर्करामयोऽचलः ।) दानार्थ- कृत्रिमशर्करामयाचलविशेषः । अस्य विवरणं पर्व्वतशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शर्कराचल¦ पु॰ दानार्थं कल्पिते शर्कराकृते पर्वते। तद्विधिः हेमा॰ दा॰ पद्मपुराणे उक्तो यथा
“अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम्। यस्य प्रदा-नाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा। अष्टभिः शर्करामारैरुत्तमः स्यान्महाचलः। चतुर्भिर्मध्यमः प्रोक्तो भारा-भ्यामधरः स्मृतः। भारेण बार्द्धभारेण कुर्य्याद् यःस्वल्पवित्तवान्। विष्कम्भपर्वतान् कुर्य्यात् तुरीयांशेनमानवः। धान्यपर्वतवत्सर्वमासाद्यामरसंयुतम्। मेरो-रुपरि तद्वच्च स्थाप्य हेमतरुत्रयम्। मन्दारः पारिजा-तश्च तृतीयः कल्पपादपः। एतद्वृक्षत्रयं मूर्ध्नि सर्वे-ष्वपि निवेशयेत्। हरिचन्दनसन्तानौ पूर्वपश्चिम-भागयोः। निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले। मन्दारे कामदेवश्च प्रत्यग्वक्त्रः सदा भवेत्। गन्धमादन-शृङ्गे च धनदः स्यादुदङ्मुखः। प्राङ्मुखो वेदमूर्त्तिश्चहंसः स्याद्विपुलाचले। हैमी सुपार्श्वे सुरभी दक्षिणा-भिमुखी भवेत्। धान्यपर्वतवत् सर्वमावाहनमखादिकम्”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शर्कराचल/ शर्करा m. ( रा-च्)" sugar-hill " , a sugar-loaf (shaped like a conical hill) Cat.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the best gift is 8 भारम्स् of sugar; then 4 and 2; even 1 or (1/2) allowed; the giver goes to heaven. M. ८३. 6; ९२. 1-१३.