शर्कराधेनुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शर्कराधेनुः, स्त्री, (शर्क्कराभिर्निर्म्मिता धेनुः ।) दानार्थशर्करानिर्म्मितधेनुः । तद्बिधिर्यथा, -- श्रीहोतोवाच । “तद्वत्स शर्कराधेनुं शृणु राजन् यथार्थतः । अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥ धेनुं शर्करया राजन् कृत्वा भारचतुष्टयम् । उत्तमा कथ्यते सद्भिश्चतुर्थांशेन वत्सकम् ॥ तदर्द्धं मध्यमा प्रोक्ता कनिष्ठा भारकेण तु । तद्वत् वत्सं प्रकुर्व्वीत चतुर्थांशेन तत्त्वतः ॥ अथ कुर्य्यादष्टशतैरूर्द्धं नृपतिसत्तम । स्वशक्त्यां कारयेद्धेनुं यथात्मानं न पीडयेत् ॥ सर्व्वबीजानि संस्थाप्य चतुर्दिक्षु समन्ततः । सौवर्णमुखशृङ्गाणि मौक्तिकानयने तथा ॥ गुडेन तु मुखं कार्य्यं जिह्वा पिष्टमयी तथा । कम्बलं पट्टसूत्रेण कण्ठाभरणभूषितम् ॥ इक्षुपादां रौप्यखुरां नवनीतमयस्तनीम् । प्रशस्तपत्रश्रवणां सितचामरमूषिताम् ॥ पञ्चरत्नसमायुक्तां वस्त्रैराच्छादितां तथा । गन्धपुष्पैरलंकृत्य ब्राह्मणाय कुटुम्बिने ॥ श्रोत्रियाय दरिद्राय साधुवृत्ताय धीमते । वेदवेदाङ्गविदुषे आहिताग्नेर्विशेषतः । अदुष्टाय प्रदातव्या न तु मत्सरिणे नृप ॥ अयने विषुवे पुण्ये व्यतीपाते शशिक्षये । एषु पुण्येषु कालेषु यदृच्छा वा सदार्पयेत् ॥ सत्पात्रन्तु द्विजं दृष्ट्वा आगतं श्रोत्रियं गृहे । तादृशाय प्रदातव्या पुच्छदेशे विगृह्य च ॥ पूर्ब्बाभिभुखमास्थाय अथवा स उदङ्मुखः । गां पूर्व्वाभिमुखीं कृत्वा वत्समुत्तरतो न्यसेत् ॥ दानकाले तु ये मन्त्रास्तान् पठित्वा समर्पयेत् । संपूज्य विधिवद्विप्रं मुद्रिकाकर्णभूषणः ॥ स्वशक्त्या दक्षिणां दत्त्वा वित्तशाठ्यविवर्जितः । हस्ते तु दक्षिणां दत्त्वा गन्धपुष्पसचन्दनाम् ॥ धेनुं समर्पयेत्तस्य मुखञ्च न विलोकयेत् । एकाहं शर्कराहारो ब्राह्मणस्त्रिदिनं वसेत् ॥ सर्व्वपापहरा धेनुः सर्व्वकामप्रदायिनी । सर्व्वकामसमृद्धस्तु जायते नात्र संशयः । दीयमानां प्रशंसन्ति ते यान्ति परमां गतिम् ॥ य इदं शृणुयाद्भक्त्या पठते वापि मानवः । मुच्यते सर्व्वपापेभ्यो विष्णुलोकं स गच्छति ॥” इति वाराहे शर्कराधेनुमाहात्म्यनामाध्यायः ॥
