सामग्री पर जाएँ

शर्करार्व्वुदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शर्करार्व्वुदः, पुं, क्ली, (शर्क्करावदर्व्वुदः ।) क्षुद्ररोग- विशेषः । तल्लक्षणं यथा, -- “प्राप्य मांसं शिराः स्नायुं मेदः श्लेष्मा तथानिलः । ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्व्वसानिभम् ॥ स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः । मांसं विशोष्य ग्रथितां शर्क्करां जनयत्यतः ॥ दुर्गन्धक्लिन्नमत्यर्थं नानावर्णं ततः शिराः । श्रवन्ति सहसा रक्तं तं विन्द्याच्छर्करार्व्वुदम् ॥” शर्करा बालुकातुल्या । तच्चिकित्सा यथा, -- “मेरोऽर्व्वुदविधानेन साधयेच्छर्करार्व्वुदम् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=शर्करार्व्वुदः&oldid=170062" इत्यस्माद् प्रतिप्राप्तम्