सामग्री पर जाएँ

शर्द्धः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शर्द्धः, पुं, (शृधु शब्दकुत्सायाञ्च + घञ् ।) अपा- नोत्सर्गः । शृधधातोर्घञ्प्रत्ययेन निष्पन्नमेतत् ॥ (तेजः । यथा, ऋग्वेदे । ४ । १ । १२ । “प्र शर्द्ध आर्त्त प्रथमं विपन्या ॥” “शर्द्धस्तेजः ।” इति तद्भाष्ये सायणः ॥ समूहः । यथा, तत्रैव । १ । ६४ । १ । “वृष्णे शर्द्धाय सुमखाय वेधसे ।” “शर्द्धाय समूहाय ।” इति तद्भाष्ये सायणः ॥ प्रसहनशीले, त्रि । यथा, तत्रैव । १ । ३७ । ४ । “प्रवः शर्द्धाय घृष्वये त्वेष द्युम्नाय शुष्मिणे ।” “शर्द्धाय प्रसहनशीलाय ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=शर्द्धः&oldid=170074" इत्यस्माद् प्रतिप्राप्तम्