शर्म्म
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शर्म्म, [न्] क्ली, (शॄ + “सर्व्वधातुभ्यो मनिन् ।” उणा० ४ । १४४ । इति मनिन् ।) सुखम् । इत्यमरः ॥ (यथा, ऋग्वेदे । ४ । २५ । ४ । “तस्मा अग्निर्भारतः शर्म्म यं सत् ।” “शर्म्म सुखम् ।” इति तद्भाष्ये सायणः ॥ यथाच कथासरित्सागरे । ७८ । ४९ । “स्वामिभक्तस्तदेतस्य शर्म्मोपायमिमं शृणु ॥”) तद्वति, त्रि ॥ गृहम् । इति निघण्टुः । ३ । ४ ॥ यथाच ऋग्वेदे । ३ । १३ । ४ । “स नः शर्म्माणि वीतयेऽग्निर्यच्छतु शन्तमा ।” “शर्म्माणि शर्म्मशब्दो गृहवाची छाया शर्म्मेति तन्नामसु पाठात् ।” इति तद्भाष्ये सायणः ॥)
