सामग्री पर जाएँ

शर्म्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शर्म्मा, [न्] पुं, (शृणात्यशुभमिति । शॄ + “सर्व्व- धातुभ्यो मनिन् ।” उणा० ४ । १४४ । इति मनिन् ।) ब्राह्मणस्योपाधिविशेषः । यथा, -- “शर्म्मन्नर्घ्यादिके कार्य्यं शर्म्मा तर्पणकर्म्मणि । शर्म्मणोऽक्षय्यकाले च पितॄणां दत्तमक्षयम् ॥” शर्म्मन्नित्यनेन गोत्रसम्बन्धनामानि पितणां परि- कल्पयन्नित्येकवाक्यतया शर्म्मान्तं नाम प्रतीयते । तथा च विष्णुपुराणम् । शर्म्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् । मङ्गल्यं दीर्घवर्णान्तमाशीर्व्वादाभिधानवत् ॥’ शर्म्मवर्म्मप्रभृतीनि उत्तरपदानि कार्य्याणीति मनुटीकापि । स्त्रीनाम तु यशोदादेवीत्यादि स्त्रीणां दान्तमित्यपि पूर्व्वप्रतीकमात्रपरम् । वैश्यस्य गुप्तान्तमिति तु पराशरः । एवञ्च दानादौ चैत्रशर्म्मणे ब्राह्मणायेत्यादि स्वरूपं वाक्यम् ॥” इति द्वैतनिर्णयः ॥ * ॥)

"https://sa.wiktionary.org/w/index.php?title=शर्म्मा&oldid=170081" इत्यस्माद् प्रतिप्राप्तम्