शलभः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शलभः, पुं, (शल + “कृशॄ शलिकलिगर्द्दिभ्यो- ऽभच् ।” उणा० ३ । १२२ । इति अभच् ।) कीटविशेषः । फडिं इति पङ्गपाल इति च भाषा । तत्पर्य्यायः । पतङ्गः २ । इत्यमरः ॥ पत्राङ्गः ३ पत्राङ्कः ४ । इति शब्दरत्नावली ॥ स तु ईतिविशेषः । यथा, -- “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः ॥” इति ज्योतिस्तत्त्वम् ॥ (असुरविशेषः । यथा, हरिवंशे । ३ । ८८ । “शरभः शलभश्चैव विप्रचित्तिश्च वीर्य्यवान् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शलभः [śalabhḥ], [शल्-अभच् Uṇ.3.122]
A grass-hopper, locust; पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु Ś.1.31.
A moth; कौरव्यवंशदावे$स्मिन् क एष शलभायते Ve.1.19; Śi.2.117; Ku.4.4.
N. of an Asura.
