शलाकापुरुषा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शलाकापुरुषाः, पुं, बौद्धानां त्रिषष्टिदैवपुरुषाः । तत्र द्बादश चक्रवर्त्तिनः । चतुर्व्विंशतिर्जिनाः । नव वासुदेवाः । नव बलदेवाः । नव प्रति- वासुदेवाश्च । यथा, -- “यः सर्व्वमण्डलस्येशो राजसूयञ्च योऽयजत् । चक्रवर्त्ती सार्व्वभौमस्ते तु द्बादश भारते ॥ आर्षभिर्भरतस्तत्र सगरस्तु सुमित्रभूः । मघवा वैजयिरथाश्वसेननृपनन्दनः ॥ सनत्कुमारोऽथ शान्तिकुन्थुररोजिना अपि । शुभूमस्तु कार्त्तवीर्य्यः पद्मः पद्मोत्तरात्मजः ॥ हरिषेणो हरिसुतो जयो विजयनन्दनः । ब्रह्मसूनुर्ब्र ह्मदत्तः सर्व्वे चेक्ष्वाकुवंशजाः ॥ प्राजापत्यस्त्रिपृष्ठोऽथ द्बिपृष्ठो ब्रह्मसम्भवः । स्वयम्भू रुद्रतनयः सोमभूः पुरुषोत्तमः ॥ शैविः पुरुषसिंहोऽथ महासीरः समुद्भवः । स्यात् पुरुषपुण्डरीकौ दत्तोऽग्निः सिंहनन्दनः ॥ नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः । वासुदेवा अमी कृष्ण नव शुक्ला बलास्त्वमी ॥ अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥ अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भवलिप्रह्लादलङ्केशमगधेश्वराः । जिनः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी ॥” इति हेमचन्द्रः ॥
