सामग्री पर जाएँ

शल्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शल्यः, पुं, (शल गतौ + यः ।) मदनवृक्षः । श्वावित् । इत्यमरः ॥ (यथा, भागवते । ८ । २ । २२ । “वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च ॥”) नृपभेदः । स तु युधिष्ठिरमातुलः । (अयं हि दुर्य्योधनेन कापट्यात् वशीकृतः कुरुपाण्डवयुद्धे दुर्य्योधनपक्षं समाश्रयत् । यथा, महाभारते । १ । २ । २१६ । “मद्रराजञ्च राजानमायान्तं पाण्डवान् प्रति । उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः ॥ वरदं तं वरं वव्रे साहाय्यं क्रियतां मम । शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्यं पाण्डवान् ॥” कर्णार्ज्जुनयोर्द्बैरथयुद्धे शल्यस्य कर्णतेजो भङ्ग- करणे प्रतिज्ञा । यथा, तत्रैव । ५ । ८ । ३७-४५ । युधिष्ठिर उवाच । “सुकृतं ते कृतं राजन् ! प्रहृष्टेनान्तरात्मना । दुर्य्योधनस्य यद्बीर त्वया वाचा प्रतिश्रुतम् ॥ एकं त्विच्छामि भद्रन्ते क्रियमाणं महीपते । राजन्नकर्त्तव्यमपि कर्त्तुमर्हसि मातुल ॥ मम त्ववेक्षया वीर शृणु विज्ञापयामि ते । भवानिह महाराज वासुदेवसमो युधि ॥ कर्णार्ज्जुनाभ्यां संप्राप्ते द्बैरथे राजसत्तम । कर्णस्य भवता कार्य्यं सारथ्यं नात्र संशयः ॥ तत्र पाल्योऽर्जुनो राजन् यदि मत्प्रियमिच्छसि । तेजोवधश्च ते कार्य्यः सौतेरस्मज्जयावहः । अकर्त्तव्यमपि ह्येतत् कर्त्तुमर्हसि मातुल ॥ शल्य उवाच । शृणु पाण्डव भद्रं ते यद्ब्रवीति दुरात्मनः । तेजोवधनिमित्तं मां सूतपुत्त्रस्य रुंयुगे ॥ अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम् । वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥ तस्याहं कुरुशार्दूल प्रतीपमहितं वचः । ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे ॥ यथा च हृतदर्पश्च हृततेजाश्च पाण्डव । भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥” युधिष्ठिरस्तु एनं हतवान् । एतद्वृत्तान्तस्तु महाभारते शल्यपर्व्वणि १७ अध्याये द्रष्टव्यः ॥) सीमा । शलाका । इति हेमचन्द्रः ॥ विल्व- वृक्षः । मत्स्यभेदः । इति राजनिर्घण्टः ॥ * ॥ शल्यनिःसरणौषधं यथा, -- “रुद्र लाङ्गलिकामूलं हिज्जलस्य तथैव च । तेन व्रणमुखं लिप्तं शल्यो निःसरति व्रणात् । चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ॥” इति गारुडे १९३ अध्यायः ॥

शल्यः, पुं, क्ली, शस्त्रविशेषः । शेल इति भाषा । तत्पर्य्यायः । शङ्कुः २ । इत्यमरः ॥ दीर्घायुधः ३ शलः ४ कुन्तः ५ विषाङ्कुरः ६ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=शल्यः&oldid=170138" इत्यस्माद् प्रतिप्राप्तम्