सामग्री पर जाएँ

शशादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शशादः, पुं, (शशमत्तीति । अद + अच् ।) श्येन- पक्षी । इति राजनिर्घण्टः ॥ (इक्षाकुपुत्त्रः । यथा, महाभारते । ३ । २२१ । १ । “इक्षाकौ संस्थिते राजन् शशादः पृथिवी- मिमाम् । प्राप्तः परमधर्म्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥” अस्य विकुक्षिरिति नाम आसीत् । अयं हि पित्रनुज्ञातः श्राद्दार्थं मांसमानेतुं वनं गतः मृगान् व्यापादयामास । ततोऽतिश्रान्तः क्षुत्- परीत एकं शशमभक्षत् अतोऽस्य शशाद इति नाम अजायत । एतद्बिवरणं भागवते । ९ । ६ अध्याये तथा विष्णुपुराणे ४ । २ अध्याये च द्रष्टव्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=शशादः&oldid=170198" इत्यस्माद् प्रतिप्राप्तम्