शस्कुली
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शस्कुली, स्त्री, पिष्टकविशेषः । पुली पिटा इति भाषा । (यथा, महाभारते । ७ । ६२ । ७ । “मोदकान् पूरिकापूपान् धानाधमक- शस्कुलीः ॥”) अस्या गुणाः । “पर्पटा लघवो रूक्षाः शस्कुल्यः कफपित्तलाः ॥” काञ्जिकयुक्ततिलशस्कुली त्याज्या यथा, -- “मांसैरिक्षुविकारांश्च काञ्जिकैस्तिलशस्कुलीम् । मूलकं माषसूपेन मधुना च न भक्षयेत् ॥” इति राजवल्लभः ॥ * ॥ वृथा तद्भक्षणप्रायश्चित्तं यथा । वृथा पायसपूपशस्कुलीकृशरसंयावशिग्रुलोहितवृक्ष- निर्य्यासामेध्यप्रभवाणां भक्षणे कामतस्त्र्यहोप- वासः । अकामतस्तदर्द्धम् । क्षत्त्रियादीनां पाद- पादहानिः । इति प्रायश्चित्तविवेकः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शस्कुली शस्पिञ्जरSee. शष्क्, शष्प्, p. 1060 , col. 3.
